SRIRANGA STOTRAM
SriRanga Stotram रङ्गस्तोत्रम् पद्माधिराजे गरुडाधिराजे विरिञ्चराजे सुरराजराजे त्रैलोक्यराजेsखिलराजराजे श्रीरङ्गराजे रमतां मनो मे ।।1।। नीलाब्जवर्णे भुजपूर्णकर्णे कर्णान्तनेत्रे कमलाकलत्रे । श्रीमल्लरङ्गे जितमल्लरङ्गे श्रीरङ्गरङ्गे रमतां मनो मे ।।2।। लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । क्षीराब्घिवासे फणिभोगवासे श्रीरङ्गवासे रमतां मनो मे ।।3।। कुबेरलीले जगदेकलीले मन्दारमालाङ्कितचारुफाले । दैत्यान्तकालेखिललोकमौले श्रीरङ्गलीले रमतां मनो मे ।।4।। अमोघनिद्रे जगदेकनिद्रे विदेहनिद्रे च समुद्रनिद्रे । श्रीयोगनिग्रे सुखभोगनिग्रे श्रीरङ्गनिद्रे रमतां मनो मे ।।5।। आनंदरूपे निजबोधरूपे ब्रह्मस्वरूपे क्षितिमूर्तिरूपे । विचित्ररूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ।।6।। भक्ताकृतार्थे सुररावणार्थे भक्तासमर्थे जगदेककीर्ते । अनेकमूर्ते रमणीयमूर्ते श्रीरङ्गमूर्ते रमतां मनो मे ।।7।। कंसप्रमाथे नरकप्रमाथे दुष्टप्रमाथे जगतां निदाने । अनाथनाथे जगदेकनाथे श्रीरङ्गनाथे रमतां मनो मे ।।8।। सचित्रशायी जगदेकशायी नन्दाङ्कशायी कमलाङ्कशायी । अम्भोधिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ।...