Posts

Showing posts with the label Thulasi Kavacham

THULASI KAVACHAM (Brahmanda Purana)

Image
तुलसीकवचम्... अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीतुलसी देवता । मनईप्सितकामनासिद्ध्यर्थं जपे विनियोगः । तुलसि श्रीमहादेवि नमः पंकजधारिणि । शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥१॥ दृशौ मे पद्मनयना श्रीसखी श्रवणे मम । घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम ॥२॥ जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम । स्कन्धौ कह्लारिणी पातु हृदयं विष्णुवल्लभा ॥३॥ पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनीई । कटिं कुंडलिनिं पातु ऊरू नारदवंदिता ॥४॥ जननी जानुनी पातु जंघे सकलवंदिता । नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी ॥५॥ संकटे विषमे दुर्गे भये वादे महाहवे । नित्यं हि संधयोः पातु तुलसी सर्वतः सदा ॥६॥ इतीदं परमं गुह्यं तुलस्याः कवचामृतम् । मर्त्यानाममृतार्थाय भीतानामभयाय च ॥७॥ मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् । वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥८॥ द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥९॥ अन्नाय क्षुधितानां च...