Mathru-Pithru Stothram (BrihadDharma Purana)
Mathru-Pithru Stothram (BrihadDharma Purana) बृहद्धर्मपुराणे पितृस्तोत्रं ब्रह्मोवाच नमः पित्रे जन्मदात्रे सर्वदेवमयाय च। सुखदाय प्रसन्नाय सुप्रीताय महात्मने॥ सर्वयज्ञस्वरूपाय स्वर्गाय परमेष्ठिने। सर्वतीर्थावलोकाय करुणा सागराय च॥ नमः सदा आशुतोषाय शिवरूपाय ते नमः। सदाऽपराधाय क्षमिणे सुखाय सुखदाय च॥ दुर्लभं मानुषमिदं येन लब्धं मया वपुः। संभावनीयं धर्मार्थे तस्मै पित्रे नमोनमः॥ तीर्थस्नान तपो होम जपादि यस्य दर्शनम्। महागुरोश्च गुरवे तस्मै पित्रे नमोनमः॥ यस्य प्रणाम स्तवनात् कोटिशः पितृतर्पणम्। अश्वमेध शतैस्तुल्यं तस्मै पित्रे नमोनमः॥ फलश्रुति इदं स्तोत्रं पितृः पुण्यं यः पठेत् प्रयतो नरः। प्रत्यहं प्रातरुत्थाय पितृश्राद्ध दिनेऽपि च॥ स्वजन्मदिवसे साक्षात् पितुरग्रे स्थितोऽपि वा। न तस्य दुर्लभं किंचित् सर्वज्ञातादि वांछितम्॥ नानाऽपकर्म कृत्वापि यः स्तौति पितरं सुतः। स धृवं प्रविधायैव प्रायश्चित्तं सुखी भवेत्॥ पितृः प्रीतिकरो नित्यं सर्व कर्माण्यथार्हति॥ इति बृहद्धर्मपुराणे पितृस्तोत्रं संपूर्णम् श्रीकृष्णार्पणमस्तु ಬೃಹದ್ಧರ್ಮಪುರಾಣೇ ಪಿತೃಸ್ತೋತ್ರಂ ಬ್ರಹ್ಮೋವಾಚ ನಮಃ ಪಿತ್ರೇ ಜನ್ಮದಾತ್ರೇ ಸ...