śrī paraśurāmāṣṭāviṃśati nāma stotraṃ - श्री परशुरामाष्टाविंशति नाम स्तोत्रं
ಶ್ರೀ ಪರಶುರಾಮಾಷ್ಟಾವಿಂಶತಿ ನಾಮ ಸ್ತೋತ್ರಂ श्री परशुरामाष्टाविंशति नाम स्तोत्रं ಶ್ರೀ ಪರಶುರಾಮಾಷ್ಟಾವಿಂಶತಿ ನಾಮ ಸ್ತೋತ್ರಂ శ్రీ పరశురామాష్టావింశతి నామ స్తోత్రం śrī paraśurāmāṣṭāviṃśati nāma stotraṃ ऋषिरुवाच । यमाहुर्वासुदेवांशं हैहयानां कुलांतकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ 1 || दुष्टं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । तस्य नामानि पुण्यानि वच्मि ते पुरुषर्षभ ॥ 2 || भूभारहरणार्थाय मायामानुषविग्रहः । जनार्दनांशसंभूतः स्थित्युत्पत्त्यप्ययेश्वरः ॥ 3 || भार्गवो जामदग्न्यश्च पित्राज्ञापरिपालकः । मातृप्राणप्रदो धीमान् क्षत्रियांतकरः प्रभुः ॥ 4 || रामः परशुहस्तश्च कार्तवीर्यमदापहः । रेणुकादुःखशोकघ्नो विशोकः शोकनाशनः ॥ 5 || नवीननीरदश्यामो रक्तोत्पलविलोचनः । घोरो दंडधरो धीरो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 6 || तपोधनो महेंद्रादौ न्यस्तदंडः प्रशांतधीः । उपगीयमानचरितः सिद्धगंधर्वचारणैः ॥ 7 || जन्ममृत्युजराव्याधिदुःखशोकभयातिगः । इत्यष्टाविंशतिर्नाम्नामुक्ता स्तोत्रात्मिका शुभा ॥ 8 || अनया प्रीयतां देवो जामदग्न्यो महेश्वरः । नेदं स्तोत्रमशांताय नादांतायातपस्विने ॥ 9 || नावेदवि...